हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Bala Trishati Stotram – श्री बाला त्रिशती स्तोत्रम्

अस्य श्रीबालात्रिपुरसुन्दरी त्रिशतनाम स्तोत्रमहामन्त्रस्य आनन्दभैरव ऋषिः, अनुष्टुप् छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, श्रीबालात्रिपुरसुन्दरी प्रीत्यर्थं श्रीबालात्रिपुरसुन्दरी त्रिशतनामस्तोत्र पारायणे विनियोगः ।

करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ॥

ध्यानम् –
रक्ताम्बरां चन्द्रकलावतंसां
समुद्यदादित्यनिभां त्रिनेत्राम् ।
विद्याक्षमालाभयदामहस्तां
ध्यायामि बालामरुणाम्बुजस्थाम् ॥

स्तोत्रम् –
ऐङ्काररूपा ऐङ्कारनिलया ऐम्पदप्रिया ।
ऐङ्काररूपिणी चैव ऐङ्कारवरवर्णिनी ॥ १ ॥

ऐङ्कारबीजसर्वस्वा ऐङ्काराकारशोभिता ।
ऐङ्कारवरदानाढ्या ऐङ्कारवररूपिणी ॥ २ ॥

ऐङ्कारब्रह्मविद्या च ऐङ्कारप्रचुरेश्वरी ।
ऐङ्कारजपसन्तुष्टा ऐङ्कारामृतसुन्दरी ॥ ३ ॥

ऐङ्कारकमलासीना ऐङ्कारगुणरूपिणी ।
ऐङ्कारब्रह्मसदना ऐङ्कारप्रकटेश्वरी ॥ ४ ॥

ऐङ्कारशक्तिवरदा ऐङ्काराप्लुतवैभवा ।
ऐङ्कारामितसम्पन्ना ऐङ्काराच्युतरूपिणी ॥ ५ ॥

ऐङ्कारजपसुप्रीता ऐङ्कारप्रभवा तथा ।
ऐङ्कारविश्वजननी ऐङ्कारब्रह्मवन्दिता ॥ ६ ॥

ऐङ्कारवेद्या ऐङ्कारपूज्या ऐङ्कारपीठिका ।
ऐङ्कारवाच्या ऐङ्कारचिन्त्या ऐं ऐं शरीरिणी ॥ ७ ॥

ऐङ्कारामृतरूपा च ऐङ्कारविजयेश्वरी ।
ऐङ्कारभार्गवीविद्या ऐङ्कारजपवैभवा ॥ ८ ॥

ऐङ्कारगुणरूपा च ऐङ्कारप्रियरूपिणी ।
क्लीङ्काररूपा क्लीङ्कारनिलया क्लीम्पदप्रिया ॥ ९ ॥

क्लीङ्कारकीर्तिचिद्रूपा क्लीङ्कारकीर्तिदायिनी ।
क्लीङ्कारकिन्नरीपूज्या क्लीङ्कारकिंशुकप्रिया ॥ १० ॥

क्लीङ्कारकिल्बिषहरी क्लीङ्कारविश्वरूपिणी ।
क्लीङ्कारवशिनी चैव क्लीङ्कारानङ्गरूपिणी ॥ ११ ॥

क्लीङ्कारवदना चैव क्लीङ्काराखिलवश्यदा ।
क्लीङ्कारमोदिनी चैव क्लीङ्कारहरवन्दिता ॥ १२ ॥

क्लीङ्कारशम्बररिपुः क्लीङ्कारकीर्तिदा तथा ।
क्लीङ्कारमन्मथसखी क्लीङ्कारवंशवर्धिनी ॥ १३ ॥

क्लीङ्कारपुष्टिदा चैव क्लीङ्कारकुधरप्रिया ।
क्लीङ्कारकृष्णसम्पूज्या क्लीं क्लीं किञ्जल्कसन्निभा ॥ १४ ॥

क्लीङ्कारवशगा चैव क्लीङ्कारनिखिलेश्वरी ।
क्लीङ्कारधारिणी चैव क्लीङ्कारब्रह्मपूजिता ॥ १५ ॥

क्लीङ्कारालापवदना क्लीङ्कारनूपुरप्रिया ।
क्लीङ्कारभवनान्तस्था क्लीं क्लीं कालस्वरूपिणी ॥ १६ ॥

क्लीङ्कारसौधमध्यस्था क्लीङ्कारकृत्तिवासिनी ।
क्लीङ्कारचक्रनिलया क्लीं क्लीं किम्पुरुषार्चिता ॥ १७ ॥

क्लीङ्कारकमलासीना क्लीं क्लीं गन्धर्वपूजिता ।
क्लीङ्कारवासिनी चैव क्लीङ्कारक्रुद्धनाशिनी ॥ १८ ॥

क्लीङ्कारतिलकामोदा क्लीङ्कारक्रीडसम्भ्रमा ।
क्लीङ्कारविश्वसृष्ट्यम्बा क्लीङ्कारविश्वमालिनी ॥ १९ ॥

क्लीङ्कारकृत्स्नसम्पूर्णा क्लीं क्लीं कृपीटवासिनी ।
क्लीं मायाक्रीडविद्वेषी क्लीं क्लीङ्कारकृपानिधिः ॥ २० ॥

क्लीङ्कारविश्वा क्लीङ्कारविश्वसम्भ्रमकारिणी ।
क्लीङ्कारविश्वरूपा च क्लीङ्कारविश्वमोहिनी ॥ २१ ॥

क्लीं मायाकृत्तिमदना क्लीं क्लीं वंशविवर्धिनी ।
क्लीङ्कारसुन्दरीरूपा क्लीङ्कारहरिपूजिता ॥ २२ ॥

क्लीङ्कारगुणरूपा च क्लीङ्कारकमलप्रिया ।
सौःकाररूपा सौःकारनिलया सौःपदप्रिया ॥ २३ ॥

सौःकारसारसदना सौःकारसत्यवादिनी ।
सौःप्रासादसमासीना सौःकारसाधनप्रिया ॥ २४ ॥

सौःकारकल्पलतिका सौःकारभक्ततोषिणी ।
सौःकारसौभरीपूज्या सौःकारप्रियसाधिनी ॥ २५ ॥

सौःकारपरमाशक्तिः सौःकाररत्नदायिनी ।
सौःकारसौम्यसुभगा सौःकारवरदायिनी ॥ २६ ॥

सौःकारसुभगानन्दा सौःकारभगपूजिता ।
सौःकारसम्भवा चैव सौःकारनिखिलेश्वरी ॥ २७ ॥

सौःकारविश्वा सौःकारविश्वसम्भ्रमकारिणी ।
सौःकारविभवानन्दा सौःकारविभवप्रदा ॥ २८ ॥

सौःकारसम्पदाधारा सौः सौः सौभाग्यवर्धिनी ।
सौःकारसत्त्वसम्पन्ना सौःकारसर्ववन्दिता ॥ २९ ॥

सौःकारसर्ववरदा सौःकारसनकार्चिता ।
सौःकारकौतुकप्रीता सौःकारमोहनाकृतिः ॥ ३० ॥

सौःकारसच्चिदानन्दा सौःकाररिपुनाशिनी ।
सौःकारसान्द्रहृदया सौःकारब्रह्मपूजिता ॥ ३१ ॥

सौःकारवेद्या सौःकारसाधकाभीष्टदायिनी ।
सौःकारसाध्यसम्पूज्या सौःकारसुरपूजिता ॥ ३२ ॥

सौःकारसकलाकारा सौःकारहरिपूजिता ।
सौःकारमातृचिद्रूपा सौःकारपापनाशिनी ॥ ३३ ॥

सौःकारयुगलाकारा सौःकारसूर्यवन्दिता ।
सौःकारसेव्या सौःकारमानसार्चितपादुका ॥ ३४ ॥

सौःकारवश्या सौःकारसखीजनवरार्चिता ।
सौःकारसम्प्रदायज्ञा सौः सौः बीजस्वरूपिणी ॥ ३५ ॥

सौःकारसम्पदाधारा सौःकारसुखरूपिणी ।
सौःकारसर्वचैतन्या सौः सर्वापद्विनाशिनी ॥ ३६ ॥

सौःकारसौख्यनिलया सौःकारसकलेश्वरी ।
सौःकाररूपकल्याणी सौःकारबीजवासिनी ॥ ३७ ॥

सौःकारविद्रुमाराध्या सौः सौः सद्भिर्निषेविता ।
सौःकाररससल्लापा सौः सौः सौरमण्डलगा ॥ ३८ ॥

सौःकाररससम्पूर्णा सौःकारसिन्धुरूपिणी ।
सौःकारपीठनिलया सौःकारसगुणेश्वरी ॥ ३९ ॥

सौः सौः पराशक्तिः सौः सौः साम्राज्यविजयप्रदा ।
ऐं क्लीं सौः बीजनिलया ऐं क्लीं सौः पदभूषिता ॥ ४० ॥

ऐं क्लीं सौः ऐन्द्रभवना ऐं क्लीं सौः सफलात्मिका ।
ऐं क्लीं सौः संसारान्तस्था ऐं क्लीं सौः योगिनीप्रिया ॥ ४१ ॥

ऐं क्लीं सौः ब्रह्मपूज्या च ऐं क्लीं सौः हरिवन्दिता ।
ऐं क्लीं सौः शान्तनिर्मुक्ता ऐं क्लीं सौः वश्यमार्गगा ॥ ४२ ॥

ऐं क्लीं सौः कुलकुम्भस्था ऐं क्लीं सौः पटुपञ्चमी ।
ऐं क्लीं सौः पैलवंशस्था ऐं क्लीं सौः कल्पकासना ॥ ४३ ॥

ऐं क्लीं सौः चित्प्रभा चैव ऐं क्लीं सौः चिन्तितार्थदा ।
ऐं क्लीं सौः कुरुकुल्लाम्बा ऐं क्लीं सौः धर्मचारिणी ॥ ४४ ॥

ऐं क्लीं सौः कुणपाराध्या ऐं क्लीं सौः सौम्यसुन्दरी ।
ऐं क्लीं सौः षोडशकला ऐं क्लीं सौः सुकुमारिणी ॥ ४५ ॥

ऐं क्लीं सौः मन्त्रमहिषी ऐं क्लीं सौः मन्त्रमन्दिरा ।
ऐं क्लीं सौः मानुषाराध्या ऐं क्लीं सौः मागधेश्वरी ॥ ४६ ॥

ऐं क्लीं सौः मौनिवरदा ऐं क्लीं सौः मञ्जुभाषिणी ।
ऐं क्लीं सौः मधुराराध्या ऐं क्लीं सौः शोणितप्रिया ॥ ४७ ॥

ऐं क्लीं सौः मङ्गलाकारा ऐं क्लीं सौः मदनावती ।
ऐं क्लीं सौः साध्यगमिता ऐं क्लीं सौः मानसार्चिता ॥ ४८ ॥

ऐं क्लीं सौः राज्यरसिका ऐं क्लीं सौः रामपूजिता ।
ऐं क्लीं सौः रात्रिज्योत्स्ना च ऐं क्लीं सौः रात्रिलालिनी ॥ ४९ ॥

ऐं क्लीं सौः रथमध्यस्था ऐं क्लीं सौः रम्यविग्रहा ।
ऐं क्लीं सौः पूर्वपुण्येशा ऐं क्लीं सौः पृथुकप्रिया ॥ ५० ॥

ऐं क्लीं सौः वटुकाराध्या ऐं क्लीं सौः वटवासिनी ।
ऐं क्लीं सौः वरदानाढ्या ऐं क्लीं सौः वज्रवल्लकी ॥ ५१ ॥

ऐं क्लीं सौः नारदनता ऐं क्लीं सौः नन्दिपूजिता ।
ऐं क्लीं सौः उत्पलाङ्गी च ऐं क्लीं सौः उद्भवेश्वरी ॥ ५२ ॥

ऐं क्लीं सौः नागगमना ऐं क्लीं सौः नामरूपिणी ।
ऐं क्लीं सौः सत्यसङ्कल्पा ऐं क्लीं सौः सोमभूषणा ॥ ५३ ॥

ऐं क्लीं सौः योगपूज्या च ऐं क्लीं सौः योगगोचरा ।
ऐं क्लीं सौः योगिवन्द्या च ऐं क्लीं सौः योगिपूजिता ॥ ५४ ॥

ऐं क्लीं सौः ब्रह्मगायत्री ऐं क्लीं सौः ब्रह्मवन्दिता ।
ऐं क्लीं सौः रत्नभवना ऐं क्लीं सौः रुद्रपूजिता ॥ ५५ ॥

ऐं क्लीं सौः चित्रवदना ऐं क्लीं सौः चारुहासिनी ।
ऐं क्लीं सौः चिन्तिताकारा ऐं क्लीं सौः चिन्तितार्थदा ॥ ५६ ॥

ऐं क्लीं सौः वैश्वदेवेशी ऐं क्लीं सौः विश्वनायिका ।
ऐं क्लीं सौः ओघवन्द्या च ऐं क्लीं सौः ओघरूपिणी ॥ ५७ ॥

ऐं क्लीं सौः दण्डिनीपूज्या ऐं क्लीं सौः दुरतिक्रमा ।
ऐं क्लीं सौः मन्त्रिणीसेव्या ऐं क्लीं सौः मानवर्धिनी ॥ ५८ ॥

ऐं क्लीं सौः वाणीवन्द्या च ऐं क्लीं सौः वागधीश्वरी ।
ऐं क्लीं सौः वाममार्गस्था ऐं क्लीं सौः वारुणीप्रिया ॥ ५९ ॥

ऐं क्लीं सौः लोकसौन्दर्या ऐं क्लीं सौः लोकनायिका ।
ऐं क्लीं सौः हंसगमना ऐं क्लीं सौः हंसपूजिता ॥ ६० ॥

ऐं क्लीं सौः मदिरामोदा ऐं क्लीं सौः महदर्चिता ।
ऐं क्लीं सौः ज्ञानगम्या ऐं क्लीं सौः ज्ञानवर्धिनी ॥ ६१ ॥

ऐं क्लीं सौः धनधान्याढ्या ऐं क्लीं सौः धैर्यदायिनी ।
ऐं क्लीं सौः साध्यवरदा ऐं क्लीं सौः साधुवन्दिता ॥ ६२ ॥

ऐं क्लीं सौः विजयप्रख्या ऐं क्लीं सौः विजयप्रदा ।
ऐं क्लीं सौः वीरसंसेव्या ऐं क्लीं सौः वीरपूजिता ॥ ६३ ॥

ऐं क्लीं सौः वीरमाता च ऐं क्लीं सौः वीरसन्नुता ।
ऐं क्लीं सौः सच्चिदानन्दा ऐं क्लीं सौः सद्गतिप्रदा ॥ ६४ ॥

ऐं क्लीं सौः भण्डपुत्रघ्नी ऐं क्लीं सौः दैत्यमर्दिनी ।
ऐं क्लीं सौः भण्डदर्पघ्नी ऐं क्लीं सौः भण्डनाशिनी ॥ ६५ ॥

ऐं क्लीं सौः शरभदमना ऐं क्लीं सौः शत्रुमर्दिनी ।
ऐं क्लीं सौः सत्यसन्तुष्टा ऐं क्लीं सौः सर्वसाक्षिणी ॥ ६६ ॥

ऐं क्लीं सौः सम्प्रदायज्ञा ऐं क्लीं सौः सकलेष्टदा ।
ऐं क्लीं सौः सज्जननुता ऐं क्लीं सौः हतदानवा ॥ ६७ ॥

ऐं क्लीं सौः विश्वजननी ऐं क्लीं सौः विश्वमोहिनी ।
ऐं क्लीं सौः सर्वदेवेशी ऐं क्लीं सौः सर्वमङ्गला ॥ ६८ ॥

ऐं क्लीं सौः मारमन्त्रस्था ऐं क्लीं सौः मदनार्चिता ।
ऐं क्लीं सौः मदघूर्णाङ्गी ऐं क्लीं सौः कामपूजिता ॥ ६९ ॥

ऐं क्लीं सौः मन्त्रकोशस्था ऐं क्लीं सौः मन्त्रपीठगा ।
ऐं क्लीं सौः मणिदामाढ्या ऐं क्लीं सौः कुलसुन्दरी ॥ ७० ॥

ऐं क्लीं सौः मातृमध्यस्था ऐं क्लीं सौः मोक्षदायिनी ।
ऐं क्लीं सौः मीननयना ऐं क्लीं सौः दमनपूजिता ॥ ७१ ॥

ऐं क्लीं सौः कालिकाराध्या ऐं क्लीं सौः कौलिकप्रिया ।
ऐं क्लीं सौः मोहनाकारा ऐं क्लीं सौः सर्वमोहिनी ॥ ७२ ॥

ऐं क्लीं सौः त्रिपुरादेवी ऐं क्लीं सौः त्रिपुरेश्वरी ।
ऐं क्लीं सौः देशिकाराध्या ऐं क्लीं सौः देशिकप्रिया ॥ ७३ ॥

ऐं क्लीं सौः मातृचक्रेशी ऐं क्लीं सौः वर्णरूपिणी ।
ऐं क्लीं सौः त्रिबीजात्मकबालात्रिपुरसुन्दरी ॥ ७४ ॥

इत्येवं त्रिशतीस्तोत्रं पठेन्नित्यं शिवात्मकम् ।
सर्वसौभाग्यदं चैव सर्वदौर्भाग्यनाशनम् ॥ ७५ ॥

आयुष्करं पुष्टिकरं आरोग्यं चेप्सितप्रदम् ।
धर्मज्ञत्व धनेशत्व विश्वाद्यत्व विवेकदम् ॥ ७६ ॥

विश्वप्रकाशदं चैव विज्ञानविजयप्रदम् ।
विधातृत्वं वैष्णवत्वं शिवत्वं लभते यतः ॥ ७७ ॥

सर्वमङ्गलमाङ्गल्यं सर्वमङ्गलदायकम् ।
सर्वदारिद्र्यशमनं सर्वदा तुष्टिवर्धनम् ॥ ७८ ॥

पूर्णिमायां दिने शुक्रे उच्चरेच्च विशेषतः ।
अथो विशेषपूजां च पौष्यस्नानं समाचरेत् ॥ ७९ ॥

सायाह्नेऽप्यथ मध्याह्ने देवीं ध्यात्वा मनुं जपेत् ।
जपेत्सूर्यास्तपर्यन्तं मौनी भूत्वा महामनुम् ॥ ८० ॥

परेऽहनि तु सन्तर्प्य एलावासितसज्जलैः ।
जुहुयात्सर्वसामग्र्या पायसान्नफलैः सुमैः ॥ ८१ ॥

दध्ना मधुघृतैर्युक्तलाजैः पृथुकसम्युतैः ।
ब्राह्मणान् भोजयेत्पश्चात् सुवासिन्या समन्वितान् ॥ ८२ ॥

सम्पूज्य मन्त्रमाराध्य कुलमार्गेण सम्भ्रमैः ।
एवमाराध्य देवेशीं यं यं काममभीच्छति ॥ ८३ ॥

तत्तत्सिद्धिमवाप्नोति देव्याज्ञां प्राप्य सर्वदा ।
त्रिशतीं यः पठेद्भक्त्या पौर्णमास्यां विशेषतः ॥ ८४ ॥

ग्रहणे सङ्क्रमे चैव शुक्रवारे शुभे दिने ।
सुन्दरीं चक्रमध्ये तु समाराध्य सदा शुचिः ॥ ८५ ॥

सुवासिन्यर्चनं कुर्यात्कन्यां वा समवर्णिनीम् ।
चक्रमध्ये निवेश्याथ घटीं करतले न्यसेत् ॥ ८६ ॥

सम्पूज्य परया भक्त्या साङ्गैः सावरणैः सह ।
षोडशैरुपचारैश्च पूजयेत्परदेवताम् ॥ ८७ ॥

सन्तर्प्य कौलमार्गेण त्रिशतीपादपूजने ।
सर्वसिद्धिमवाप्नोति साधकोऽभीष्टमाप्नुयात् ॥ ८८ ॥

उत्तर करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः ।
उत्तर हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्विमोकः ॥

इति श्रीकुलावर्णवतन्त्रे योगिनीरहस्ये श्री बाला त्रिशती स्तोत्रम् ।


Sri Bala Stotras – श्री बाला स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.